वेदाङ्गज्योतिषम्।9.9.html।ऋक्पाठः॥पञ्चसम्वत्सरमयम्युगाध्यक्षम्प्रजापतिम्।दिनर्त्वयनमासाङ्गम्प्रणम्यशिरसाशुचिः॥१॥प्रणम्यशिरसाकालमभिवाद्यसरस्वतीम्।कालज्ञानम्प्रवक्ष्यामिलगधस्यमहात्मनः॥२॥ज्योतिषामयनम्कृत्सनम्प्रवक्ष्यामनुपूर्वशः।विप्राणाम्सम्मतम्लोकेयज्ञकालार्थसिद्धये॥३॥निरेकम्द्वादशार्धाब्दम्द्विगुणम्गतसञ्ज्ञिकम्।षष्ट्याषष्ट्यायुतम्द्वाभ्याम्पर्वणाम्राशिरुच्यते॥४॥स्वरार्कमेकेसोमार्कौयदासाकम्सवासवौ।स्यात्तदादियुगम्माघस्तपःशुक्लोदिनम्त्यजः॥५॥प्रपद्येतेश्रविष्ठादौसूर्याचान्द्रमसावुदक्।सार्पार्धेदक्षिणार्कस्तुमाघश्रावणयोःसदा॥६॥धर्मवृद्धिरपाम्प्रस्थःक्षपाहासउदग्गतौ।दक्षिणेतौविपर्यस्तौषण्मुहूर्त्ययनेनतु॥७॥द्विगुणम्सप्तमम्चाहुरयनाद्यम्त्रयोदश।चतुर्थम्दशमम्चैवद्विर्युग्माद्यम्बहुलेप्यृतौ॥८॥वसुस्त्वष्टाभगोजश्चमित्रःसर्पाश्विनौजलम्।धाताकश्चायनाद्याश्चार्धपञ्चनभस्त्वृतुः॥९॥भाम्शाःस्युरष्टकाःकार्याःपक्षाद्वादशचोद्गताः।एकादशगुणस्योनःशुक्लेर्धम्चैन्दवायदि॥१०॥कार्याभाम्शाष्टकास्थानेकलाएकान्नविम्शतिः।ऊनस्थानेद्विसप्ततीरुद्वपेदूनसम्मिताः॥११॥त्र्यहम्शीभशेषोदिवसाम्शभागश्चतुर्दशस्याप्युपनीतभिन्नम्।भार्धेधिकेचाधिगतेपरेम्शेद्वावुत्तमैकम्नवकैरवेद्यम्॥१२॥पक्षात्पञ्चदशाच्चोर्ध्वम्तद्भुक्तमितिनिर्दिशेत्।नवभिस्तूद्गतोम्शःस्यादूनाम्शद्व्यधिकेनतु॥१३॥जौद्राघःखेश्वेहीरोषाचिन्मूषण्यःसोमाधानः।रेमृघ्राश्वाओजस्तृष्वोहर्येष्टाइत्यृक्षालिङ्गैः॥१४॥जावाद्यम्शैःसमम्विद्यात्पूर्वार्धेपार्वसूत्तरे।भादानाम्शाच्चतुर्दशीकाष्ठानाम्देविनाकलाः॥१५॥कलादशचविम्शास्याद्द्विमुहूर्तस्तुनाडिके।द्वित्रिम्शस्तत्कलानाम्तुषट्शतीत्र्यधिकम्भवेत्॥१६॥नाडिकेद्वेमुहूर्तस्तुपञ्चाशत्पलमाषकम्।माषकात्कुम्भकोद्रोणःकुटपैर्वर्धतेत्रिभिः॥१७॥ससप्तकुम्भयुक्स्योनःसूर्याद्योनिम्त्रयोदश।नवमानिचपञ्चाह्नःकाष्ठापञ्चाक्षराःस्मृताः॥१८॥श्रविष्ठाभ्याम्गुणाभ्यस्तान्प्राग्विलग्नान्विनिर्दिशेत्।सूर्यान्मासान्षळभ्यस्तान्विद्याच्चान्द्रमसान्ऋतून्॥१९॥अतीतपर्वभागेषुशोधयेद्द्विगुणाम्तिथिम्।तेषुमण्डलभागेषुतिथिनिष्ठाम्गतोरविः॥२०॥याःपर्वभादानकलास्तासुसप्तगुणाम्तिथिम्।प्रक्षिपेत्कलासमूहस्तुविद्यादादानकीःकलाः॥२१॥यदुत्तरस्यायनतोयनम्स्याच्छेषम्तुयद्दक्षिणतोयनस्य।तदेवषष्ट्याद्विगुणम्द्विभक्तम्सद्वादशम्स्याद्दिवसप्रमाणम्॥२२॥तदर्धम्दिनभागानाम्सदापर्वणिपर्वणि।ऋतुशेषम्तुतद्विद्यात्सङ्ख्यायसहपर्वणाम्॥२३॥इत्युपायसमुद्देशोभूयोप्येनम्प्रकल्पयेत्।ज्ञेयराशिम्गताभ्यस्तान्विभजेज्ज्ञानराशिषु॥२४॥अग्निःप्रजापतिःसोमोरुद्रोदितिर्बृहस्पतिः।सर्पाश्चपितरश्चैवभगश्चैवार्यमापिच॥२५॥सवितात्वष्टाथवायुश्चेन्द्राग्नीमित्रएवच।इन्द्रोनिर्ऋतिरापोवैविश्वेदेवास्तथैवच॥२६॥विष्णुर्वसवोवरुणोजएकपात्तथैवच।अहिर्बुध्न्यस्तथापूषाश्विनौयमएवच॥२७॥नक्षत्रदेवताएताएताभिर्यज्ञकर्मणि।यजमानस्यशास्त्रज्ञैर्नामनक्षत्रजम्स्मृतम्॥२८॥इत्येतन्मासवर्षाणाम्मुहूर्तोदयपर्वणाम्।दिनर्त्वयनमासाङ्गम्व्याख्यातम्लगधोऽब्रवीत्॥२९॥सोमसूर्यस्रिचरितोलोकाँल्लोकेचसम्मितम्।सोमसूर्यस्रिचरितोविद्वान्वेदविदस्नुते॥३०॥विषुवम्तद्गुणम्द्वाभ्याम्रूपहीनम्तुषड्गुणम्।यल्लब्धम्तानिपर्वाणितथोर्ध्वम्सातिथिर्भवेत्॥३१॥माघशुक्लप्रवृत्तस्तुपौषकृष्णसमापिनः।युगस्यपञ्चवर्षाणिकालज्ञानम्प्रचक्षते॥३२॥तृतीयाम्नवमीम्चैवपौर्णमासीम्त्रयोदशीम्।षष्ठीम्चविषुवाम्प्रोक्तोद्वादश्याम्चसमम्भवेत्॥३३॥चतुर्दशीमुपवसथस्तथाभवेद्यथोदितोदिनमुपैतिचन्द्रमाः।माघशुक्लाह्निकोयुङ्क्तेश्रविष्ठायाम्वार्षिकीम्॥३४॥यथाशिखामयूराणाम्नागानाम्मणयोयथा।तद्वद्वेदाङ्गशास्त्राणाम्ज्योतिषम्मूर्धनिस्थितम्॥३५॥वेदाहियज्ञार्थमभिप्रवृत्ताःकालानुपूर्वाविहिताश्चयज्ञाः।तस्मादिदम्कालविधानशास्त्रम्योज्योतिषम्वेदसवेदयज्ञान्योज्योतिषम्वेदसवेदयज्ञानिति॥३६॥पञ्चसम्वत्सरम्प्रपद्येतेकार्याःकलादशचयाःपर्वसम्विताविषुवम्सप्त॥इतिवेदाङ्गज्योतिषम्समाप्तम्॥अथयाजुषज्योतिषंप्रारभ्यते।पञ्चसंवत्सरमयंयुगाध्यक्षंप्रजापतिम्।दिनर्त्वयनमासाङ्गंप्रणम्यशिरसाशुचिः॥१॥ज्योतिषामयनंपुण्यंप्रवक्ष्याम्यनुपूर्वशः।संमतंब्राह्मणेन्द्राणांयज्ञकालार्थसिद्धये॥२॥वेदाहियज्ञार्थमभिप्रवृत्ताःकालानुपूर्ण्याविहिताश्चयज्ञाः।तस्मादिदंकालविधानशास्त्रंयोज्योतिषंवेदसवेदयज्ञम्॥३॥यथाशिखामयूराणांनागानांमणयोयथा।तद्वद्वेदाङ्गशास्त्राणांगणितंमूर्धनिस्थितम्॥४॥येबृहस्पतिनाभुक्तामीनान्प्रभृतिराशयः।त्रिवृताःपञ्चभिर्ऋतायःशेषःसपरिग्रहः॥४।०॥माघशुक्लप्रपन्नस्यपौषकृष्णसमापिनः।युगस्यपञ्चवर्षस्यकालज्ञानंप्रचक्षते॥५॥स्वराक्रमेतेसोमार्कौयदासाकंसवासवौ।स्यात्तदादियुगंमाघस्तपःशुक्लोऽयनंह्युदक्॥६॥प्रपद्येतेश्रविष्ठादौसूर्याचन्द्रमसावुदक्।सार्पार्धेदक्षिणार्कस्तुमाघश्रावणयोःसदा॥७॥धर्मवृद्धिरपांप्रस्थःक्षपाह्लास‌उदग्गतौ।दक्षिणेतौविपर्यस्तौषण्मुहूर्त्ययनेनतु॥८॥प्रथमंसप्तमंचाहुरयनाद्यंत्रयोदशम्।चतुर्थंदशमंचैवद्विर्युग्माद्यंबहुलेऽप्यृतौ॥९॥वसुत्वष्टाभवोऽजश्चमित्रःसर्पोऽश्विनौजलम्।धाताकश्चायनाद्याःस्युरर्धपञ्चमभस्त्वृतुः॥१०॥एकान्तरेऽह्निमासेचपूर्वान्कृत्वादिरुत्तरः।अर्धयोःपञ्चपर्वाणांमृदूपञ्चदशाष्टमौ॥११॥दुहेयंपर्वचेत्पादेपादस्त्रिंशत्तुसैकिका।भागात्मनापवृज्यांशांनिर्दिशेंशोऽधिकोयदि॥१२॥निरेकंद्वादशाभ्यस्तंद्विगुणंगतसंयुतम्।षष्ट्याषष्ट्यायुतंद्वाभ्यांपर्वणांराशिरुच्यते॥१३॥स्युःपदोऽर्धंत्रिपाद्यायात्रिदव्यैकेऽह्नःकृतेस्थितिम्।साम्येनेन्दोःस्तृणोऽन्येषुपर्वकाःपञ्चसंमिताः॥१४॥भांशाःस्युरष्टकाःकार्याःपक्षाद्वादशकोद्गताः।एकादशगुणश्चोनःशुक्लेऽर्धंचैन्दवायदि॥१५॥नवकैरुद्गतोंऽशःस्यादूनःसप्तगुणोभवेत्।आवापस्त्वयुजेऽर्धंस्यात्पौलस्त्येऽस्तंगतेऽपरम्॥१६॥जावाद्यंशैःसमंविद्यात्पूर्वार्धेपर्वसूत्तराः।भादानंस्याच्चतुर्दश्यांद्विभागेभ्योऽधिकोयदि॥१७॥जौद्रागःखेश्वेऽहीरोशाचिन्मूषण्यःसूमाधानः।रेमृघास्वाऽपोऽजःकृष्यहज्येष्ठाइत्यृक्षालिङ्गैः॥१८॥कार्याभांशाष्टकस्थानेकलाएकान्नविंशतिः।ऊनस्थानेद्विसप्ततिमुद्वपेद्युक्तसंभवे॥१९॥तिथिमेकादशाभ्यस्तांपर्वभांशसमन्विताम्।विभज्यभसमूहेनतिथिनक्षत्रमादिशेत्॥२०॥याःपर्वभादानकलास्तासुसप्तगुणांतिथिम्।उक्तास्तासांविजानीयात्तिथिभादानिकाःकलाः॥२१॥अतीतपर्वभागेभ्यःशोधयेद्द्विगुणांतिथिम्।तेषुमण्डलभागेषुतिथिनिष्ठांगतोरविः॥२२॥विषुवन्तंद्विरभ्यस्तंरूपोनंषड्गुणीकृतम्।पक्षायदर्धंपक्षाणांतिथिःसविषुवान्स्मृतः॥२३॥पलानिपञ्चाशदपांधृतानितदाढकंद्रोणमतःप्रमेयम्।त्रिभिर्विहीनंकुडवैस्तुकार्यंतन्नाडिकायास्तुभवेत्प्रमाणम्॥२४॥एकादशभिरभ्यस्यपर्वाणिनवभिस्तिथिम्।युगलब्धंसपर्वस्याद्वर्तमानार्कभक्रमात्॥२५॥सूर्यर्क्षभागान्निवभिर्विभज्यशेषंद्विरभ्यस्यदिनोपभुक्तिः।तिथियुक्ताभुक्तिदिनेषुकालोयोगंदिनैकादशकेनतद्भम्॥२६॥त्रियंशोभशेषोदिवसांशभागश्चतुर्दशश्चाप्यनीयभिन्नम्।भार्धेऽधिकेचापिगतेपरोंऽशोद्वावुत्तमेतन्नवकैरवेद्यम्॥२७॥त्रिंशत्यह्नांसषट्षष्टिरब्दःषट्चर्तवोऽयने।मासाद्वादशसूर्याःस्युरेतत्पञ्चगुणंयुगम्॥२८॥उदयावासवस्यस्युर्दिनराशिःस्वपञ्चकः।ऋषेर्द्विषष्टिहीनंस्याद्विंशत्याचैकयास्तृणाम्॥२९॥पञ्चत्रिंशंशतंपौष्णमेकोनमयनान्यृषेः।पर्वणांस्याच्चतुष्पादीकाष्ठानांचैवताःकलाः॥३०॥सावनेन्दुस्त्रिमासानांषष्टिश्चैकाद्विसप्तिका।द्वित्रिंशतम्सावनस्यार्धःसूर्यःस्तृणांसपर्ययः॥३१॥अग्निःप्रजापतिःसोमोरुद्रोऽदितिर्बृहस्पतिः।सर्पाश्चपितरश्चैवभगश्चैवाऽर्यमाऽपिच॥३२॥सवितात्वष्टाऽथवायुश्चेन्द्राग्नीमित्र‌एवच।इन्द्रोनिर्ऋतिरापोवैविश्वेदेवास्तथैवच॥३३॥विष्णुर्वसवोवरुणोऽज‌एकपात्तथैवच।अहिर्बुधन्यस्तथापूषाअश्विनौयम‌एवच॥३४॥नक्षत्रदेवताह्येताएताभिर्यज्ञकर्मणि।यजमानस्यशास्त्रज्ञैर्नामनक्षत्रजंस्मृतम्॥३५॥उग्राण्यार्द्राचचित्राचविशाखाश्रवणाऽश्वयुक्।क्रूराणितुमघास्वातिर्ज्येष्ठामूलंयमस्ययत्॥३६॥द्वयूनंद्विषष्टिभागेनहेयंसौर्यात्सपार्वणम्।यत्कृतावुपयुज्येतेमध्येऽन्तंचाधिमासकौ॥३७॥कलादशसविंशास्याद्द्वेमुहूर्तस्यनाडिके।द्वित्रिंशत्तत्कलानांतुषट्छतीत्र्यधिकाभवेत्॥३८॥ससप्तकंभयुक्सोमःसूर्योद्यूनित्रयोदश।उत्तमानितुपञ्चाह्नःकाष्ठापञ्चाक्षराभवेत्॥३९॥यदुत्तरस्यायनतोगतंस्याच्छेषंतथादक्षिणतोऽयनस्य।तदेवषष्ट्याद्विगुणंद्विभक्तंसद्वादशंस्याद्दिवसप्रमाणम्॥४०॥यदर्धंदिनभागानांसदापर्वणिपर्वणि।ऋतुशेषंतुतद्विद्यात्संख्यायसहपर्वणाम्॥४१॥इत्युपायसमुद्देशोभूयोऽप्यह्नःप्रकल्पयेत्।ज्ञेयराशिगतान्व्यस्तान्विभजेज्ज्ञानराशिना॥४२॥इत्येवंमासवर्षाणांमुहूर्तोदयपर्वणाम्।दिनर्त्वयनमासाङ्गंव्याख्यानंलगतोऽब्रवीत्॥४२।०॥सोमसूर्यस्रिचरितंविद्वान्वेदविदश्नुते।सोयसूर्यस्त्रिचरितंलोकंलोकेचसंततिंलोकंलोकेचसंततिम्॥४३॥इतियाजुषज्योतिषंसमाप्तम्॥