नामलिङ्गानुशासनंनामअमरकोषः।७ः१।यस्यज्ञानदयासिन्धोरगाधस्यानघागुणाः।सेव्यतामक्षयोधीराःसश्रियेचामृतायच।समाहृत्यान्यतन्त्राणिसंक्षिप्तैःप्रतिसंस्कृतैः।संपूर्णमुच्यतेवर्गैर्नामलिङ्गानुशासनम्।प्रायशोरूपभेदेनसाहचर्याच्चकुत्रचित्।स्त्रीपुंनपुंसकंज्ञेयंतद्विशेषविधेःक्वचित्।भेदाख्यानायनद्वन्द्वोनैकशेषोनसंकरः।कृतोऽत्रभिन्नलिङ्गानामनुक्तानांक्रमादृते।त्रिलिङ्ग्यांत्रिष्वितिपदंमिथुनेतुद्वयोरिति।निषिद्धलिङ्गंशेषार्थंत्वन्ताथादिनपूर्वभाक्।स्वरव्ययंस्वर्गनाकत्रिदिवत्रिदशालयाः।सुरलोकोद्योदिवौद्वेस्त्रियांक्लीबेत्रिविष्टपम्।अमरानिर्जरादेवास्त्रिदशाविबुधाःसुराः।सुपर्वाणःसुमनसस्त्रिदिवेशादिवौकसः।आदितेयादिविषदोलेखाअदितिनन्दनाः।आदित्याऋभवोऽस्वप्नाअमर्त्याअमृतान्धसः।बर्हिर्मुखाःक्रतुभुजोगीर्वाणादानवारयः।वृन्दारकादैवतानिपुंसिवादेवताःस्त्रियाम्।आदित्यविश्ववसवस्तुषिताभास्वरानिलाः।महाराजिकसाध्याश्चरुद्राश्चगणदेवताः।विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः।पिशाचोगुह्यकःसिद्धोभूतोऽमीदेवयोनयः।असुरादैत्यदैतेयदनुजेन्द्रारिदानवाः।शुक्रशिष्यादितिसुताःपूर्वदेवाःसुरद्विषः।सर्वज्ञःसुगतोबुद्धोधर्मराजस्तथागतः।समन्तभद्रोभगवान्मारजिल्लोकजिज्जिनः।षडभिज्ञोदशबलोऽद्वयवादीविनायकः।मनीन्द्रःश्रीघनःशास्तामुनिःशाक्यमुनिस्तुयः।सशाक्यसिंहःसर्वार्थसिद्धःशौद्धोदनिश्चसः।गौतमश्चार्कबन्धुश्चमायादेवीसुतश्चसः।ब्रह्मात्मभूःसुरज्येष्ठःपरमेष्ठीपितामहः।हिरण्यगर्भोलोकेशःस्वयंभूश्चतुराननः।धाताब्जयोनिर्द्रुहिणोविरिञ्चिःकमलासनः।स्रष्टाप्रजापतिर्वेधाविधाताविश्वसृड्विधिः।नाभिजन्माण्डजःपूर्वोनिधनःकमलोद्भवः।सदानन्दोरजोमूर्तिःसत्यकोहंसवाहनः।विष्णुर्नारायणःकृष्णोवैकुण्ठोविष्टरश्रवाः।दामोदरोहृषीकेशःकेशवोमाधवःस्वभूः।दैत्यारिःपुण्डरीकाक्षोगोविन्दोगरुडध्वजः।पीताम्बरोऽच्युतःशार्ङ्गीविष्वक्सेनोजनार्दनः।उपेन्द्रइन्द्रावरजश्चक्रपाणिश्चतुर्भुजः।पद्मनाभोमधुरिपुर्वासुदेवस्त्रिविक्रमः।देवकीनन्दनःशौरिःश्रीपतिःपुरुषोत्तमः।वनमालीबलिध्वंसीकंसारातिरधोक्षजः।विश्वंभरःकैटभजिद्विधुःश्रीवत्सलाञ्छनः।पुराणपुरुषोयज्ञपुरुषोनरकान्तकः।जलशायीविश्वरूपोमुकुन्दोमुरमर्दनः।वसुदेवोऽस्यजनकःसएवानकदुन्दुभिः।बलभद्रःप्रलम्बघ्नोबलदेवोऽच्युताग्रजः।रेवतीरमणोरामःकामपालोहलायुधः।नीलाम्बरोरौहिणेयस्तालाङ्कोमुसलीहली।संकर्षणःसीरपाणिःकालिन्दीभेदनोबलः।मदनोमन्मथोमारःप्रद्युम्नोमीनकेतनः।कंदर्पोदर्पकोऽनङ्गःकामःपञ्चशरःस्मरः।शम्बरारिर्मनसिजःकुसुमेषुरनन्यजः।पुष्पधन्वारतिपतिर्मकरध्वजआत्मभूः।अरविन्दमशोकंचचूतंचनवमल्लिका।नीलोत्पलंचपञ्चैतेपञ्चबाणस्यसायकाः।उन्मादनस्तापनश्चशोषणःस्तम्भनस्तथा।संमोहनश्चकामस्यपञ्चबाणाःप्रकीर्तिताः।ब्रह्मसूर्विश्वकेतुःस्यादनिरुद्धउषापतिः।लक्ष्मीःपद्मालयापद्माकमलाश्रीर्हरिप्रिया।इन्दिरालोकमातामाक्षीरोदतनयारमा।भार्गवीलोकजननीक्षीरसागरकन्यका।शङ्खोलक्ष्मीपतेःपाञ्चजन्यश्चक्रंसुदर्शनः।कौमोदकीगदाखड्गोनन्दकःकौस्तुभोमणिः।चापःशार्ङ्गंमुरारेस्तुश्रीवत्सोलाञ्छनंस्मृतम्।अश्वाश्चशैब्यसुग्रीवमेघपुष्पबलाहकाः।सारथिर्दारुकोमन्त्रीह्युद्धवश्चानुजोगदः।गरुत्मान्गरुडस्तार्क्ष्योवैनतेयःखगेश्वरः।नागान्तकोविष्णुरथःसुपर्णःपन्नगाशनः।शंभुरीशःपशुपतिःशिवःशूलीमहेश्वरः।ईश्वरःशर्वईशानःशंकरश्चन्द्रशेखरः।भूतेशःखण्डपरशुर्गिरीशोगिरिशोमृडः।मृत्युंजयःकृत्तिवासाःपिनाकीप्रमथाधिपः।उग्रःकपर्दीश्रीकण्ठःशितिकण्ठःकपालभृत्।वामदेवोमहादेवोविरूपाक्षस्त्रिलोचनः।कृशानुरेताःसर्वज्ञोधूर्जटिर्नीललोहितः।हरःस्मरहरोभर्गस्त्र्यम्बकस्त्रिपुरान्तकः।गङ्गाधरोऽन्धकरिपुःक्रतुध्वंसीवृषध्वजः।व्योमकेशोभवोभीमःस्थाणूरुद्रउमापतिः।अहिर्बुध्न्योऽष्टमूर्तिश्चगजारिश्चमहानटः।कपर्दोऽस्यजटाजूटःपिनाकोऽजगवंधनुः।प्रमथाःस्युःपारिषदाब्राह्मीत्याद्यास्तुमातरः।ब्राह्मीमाहेश्वरीचैवकौमारीवैष्णवीतथा।वाराहीचतथेन्द्राणीचामुण्डासप्तमातरः।विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा।अणिमामहिमाचैवगरिमालघिमातथा।प्राप्तिःप्राकाम्यमीशित्वंवशित्वंचाष्टसिद्धयः।उमाकात्यायनीगौरीकालीहैमवतीश्वरा।शिवाभवानीरुद्राणीशर्वाणीसर्वमङ्गला।अपर्णापार्वतीदुर्गामृडानीचण्डिकाम्बिका।आर्यादाक्षायणीचैवगिरिजामेनकात्मजा।कर्ममोटीतुचामुण्डाचर्ममुण्डातुचर्चिका।विनायकोविघ्नराजद्वैमातुरगणाधिपाः।अप्येकदन्तहेरम्बलम्बोदरगजाननाः।कार्तिकेयोमहासेनःशरजन्माषडाननः।पार्वतीनन्दनःस्कन्दःसेनानीरग्निभूर्गुहः।बाहुलेयस्तारकजिद्विशाखःशिखिवाहनः।षाण्मातुरःशक्तिधरःकुमारःक्रौञ्चदारणः।शृङ्गीभृङ्गीरिटिस्तुण्डीनन्दिकोनन्दिकेश्वरः।इन्द्रोमरुत्वान्मघवाबिडौजाःपाकशासनः।वृद्धश्रवाःसुनासीरःपुरुहूतःपुरंदरः।जिष्णुर्लेखर्षभःशक्रःशतमन्युर्दिवस्पतिः।सुत्रामागोत्रभिद्वज्रीवासवोवृत्रहावृषा।वास्तोष्पतिःसुरपतिर्बलारातिःशचीपतिः।जम्भभेदीहरिहयःस्वाराण्नमुचिसूदनः।संक्रन्दनोदुश्च्यवनस्तुराषाण्मेघवाहनः।आखण्डलःसहस्राक्षऋभुक्षास्तस्यतुप्रिया।